|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.68. अध्यायः 068
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति भीष्मेण राजनीतिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-68-0x(5497)(67469)
पार्थिवेन विशेषेण किं कार्यमवशिष्यते।
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः॥ 12-68-1(67470)
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत॥ 12-68-2(67471)
भीष्म उवाच। 12-68-2x(5498)
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा॥ 12-68-3(67472)
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः।
अजितात्मा नरपतिर्विजयेत कथं रिपून्॥ 12-68-4(67473)
एतावानात्मविजयः पञ्चवर्गविनिग्रहः।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन्॥ 12-68-5(67474)
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन।
नगरोपवने चैव पुरोद्याने तथैव च॥ 12-68-6(67475)
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च।
मध्ये च नरशार्दूल तथा राजनिवेशने॥ 12-68-7(67476)
प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन्।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान्॥ 12-68-8(67477)
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः॥ 12-68-9(67478)
पुरे जनपदे चैव तथा सामन्तराजसु।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते॥ 12-68-10(67479)
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ।
आपणेषु विहारेषु समवायेषु वीथिषु॥ 12-68-11(67480)
आरामेषु तथोद्याने पण्डितानां समागमे।
वेशेषु चत्वरे चैव सभास्वावसथेषु च॥ 12-68-12(67481)
एवं विहन्याच्चारेण परचारं विचक्षणः।
चारे च विहते सर्वं हतं भवति भारत॥ 12-68-13(67482)
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना।
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा॥ 12-68-14(67483)
`विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः।
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते॥ 12-68-15(67484)
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्ववित्।
पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम्।
वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ॥ ' 12-68-16(67485)
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै।
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः॥ 12-68-17(67486)
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये।
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन्॥ 12-68-18(67487)
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः॥ 12-68-19(67488)
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः।
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्॥ 12-68-20(67489)
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः॥ 12-68-21(67490)
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा॥ 12-68-22(67491)
न च पश्यो भवेदस्य नृपो यश्चातिवीर्यवान्।
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत्॥ 12-68-23(67492)
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत्॥ 12-68-24(67493)
वर्जनीयं सदा युद्धं राज्यकामेन धीमता।
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः॥ 12-68-25(67494)
सान्त्वेन तु प्रदानेन भेदेन च नराधिप।
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः॥ 12-68-26(67495)
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन।
षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये॥ 12-68-27(67496)
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा।
तन्नाददीत सहसा पौराणां रक्षणाय वै॥ 12-68-28(67497)
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः।
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने॥ 12-68-29(67498)
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः।
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्॥ 12-68-30(67499)
आकरे लवणे शुल्के तरे नागबले तथा।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान्॥ 12-68-31(67500)
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्।
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते॥ 12-68-32(67501)
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्।
दानशीलश्च सततं यज्ञशीलश्च भारत॥ 12-68-33(67502)
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः।
व्यवहारस्य लोपेन कुतः स्वर्गः कुतो यशः॥ 12-68-34(67503)
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा।
[तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः॥ 12-68-35(67504)
विधावाक्रम्य मित्राणि विधानमुपकल्पयेत्।
सामभेदान्विरोधार्थं विधानमुपकल्पयेत्॥] 12-68-36(67505)
`त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत्।'
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि।
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि॥ 12-68-37(67506)
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः॥ 12-68-38(67507)
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः।
असंभवे प्रवेशस्य दाहयेदग्निना भृशम्॥ 12-68-39(67508)
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान्।
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै॥ 12-68-40(67509)
नदीमार्गेषु च तथा संक्रमानवसादयेत्।
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत्॥ 12-68-41(67510)
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम्।
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते॥ 12-68-42(67511)
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत्॥ 12-68-43(67512)
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा।
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम्॥ 12-68-44(67513)
`देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम्।
पिशाचपन्नगानां च गन्धर्वाप्सरसामपि।
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत्॥ 12-68-45(67514)
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम्।
महेश्वरगणेशेन वाराणस्यां नराधिप॥ ' 12-68-46(67515)
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा।
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्॥ 12-68-47(67516)
सङ्कटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत्॥ 12-68-48(67517)
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा।
आरापयेच्छतघ्नीश्च स्वाधीनानि च कारयेत्॥ 12-68-49(67518)
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्।
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः॥ 12-68-50(67519)
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत्।
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा॥ 12-68-51(67520)
नक्तमेव च भक्तानि पाचयेत नराधिपः।
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम्॥ 12-68-52(67521)
`यथासंभवशैलानि चैष्टकानि च कारयेत्।
मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम्॥ ' 12-68-53(67522)
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः।
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः॥ 12-68-54(67523)
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च॥ 12-68-55(67524)
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान्।
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः॥ 12-68-56(67525)
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च।
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः॥ 12-68-57(67526)
विशालान्राजमार्गांश्च कारयेत नराधिपः।
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत्॥ 12-68-58(67527)
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः।
अश्वागारान्गजागारान्बलाधिकरणानि च॥ 12-68-59(67528)
परिखाश्चैव कौरव्य प्रतोलीसङ्कटानि च।
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर॥ 12-68-60(67529)
अर्थसंनिचयं कुर्याद्राजा परबलार्दितः।
तैलं मधु घृतं सस्यमौषधानि च सर्वशः॥ 12-68-61(67530)
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम्।
यवसेन्धनदिग्धानां कारयेत च संचयान्॥ 12-68-62(67531)
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम्।
संचयानेवमादीनां कारयेत नराधिपः॥ 12-68-63(67532)
औषधानि च सर्वाणि मूलानि च फलानि च।
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषठः॥ 12-68-64(67533)
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः॥ 12-68-65(67534)
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान्॥ 12-68-66(67535)
कृते कर्माणि राजा तान्पूजयेद्धनसंचयैः।
माननेन यथार्हेण सान्त्वेन विविधेन च॥ 12-68-67(67536)
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन।
गतानृण्यो भवेद्राजा यथा शास्त्रे निदर्शितम्॥ 12-68-68(67537)
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे।
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि॥ 12-68-69(67538)
तथा जनपदाश्चैव पुरं च कुरुनन्दन।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः॥ 12-68-70(67539)
षाङ्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा।
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम्॥ 12-68-71(67540)
षाङ्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर।
सन्धायासनमित्येव यात्रासन्धानमेव च॥ 12-68-72(67541)
विगृह्यासनमित्येव यात्रां संपरिगृह्य च।
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च॥ 12-68-73(67542)
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा॥ 12-68-74(67543)
`धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः।
मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः।
शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम्॥ 12-68-75(67544)
कार्यं च कारणं चैव कर्ता च परिकीर्तितः।
एतत्परतरं विद्यान्त्रिवर्गादपि भारत।
सर्वेपां च क्षये राजन्यस्त्रिवर्गः सनातनः॥ 12-68-76(67545)
सत्वं रजस्तमश्चैव त्रिवर्गकरणं स्मृतम्।
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते॥ 12-68-77(67546)
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते।
तेन मोक्षपरश्चैव देवदेवः पितामहः।
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह पितामहः॥ 12-68-78(67547)
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता।'
धर्मोऽर्थश्चैव कामश्च सेवितव्याः स्वकालतः॥ 12-68-79(67548)
`सेवा धर्मस्य कर्तव्या सततं भूरिवत्सरैः।
पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः॥' 12-68-80(67549)
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम्।
`यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः।
अर्थकामविहीनोऽपि चिरं पालयते महीम्॥' 12-68-81(67550)
अस्मिन्नर्थे हि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम्।
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि॥ 12-68-82(67551)
कृत्वा कार्याणि धर्मेण सम्यक्संपाल्य मेदिनीम्।
पालयित्वा तथा पौरान्परत्र सुखमेधते॥ 12-68-83(67552)
किं तस्य तपसा राज्ञः किंच तस्याध्वरैः कृतैः।
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः॥ 12-68-84(67553)
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर।
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते॥ 12-68-85(67554)
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम्।
विषं माया च दैवं च पौरुषं चात्मसिद्धये॥ 12-68-86(67555)
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः।
त्रिवर्गत्रयसंपूर्णमुपादाय तमुद्वहेत्॥ 12-68-87(67556)
षट्पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः।
त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीर्यते॥ 12-68-88(67557)
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च।
दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः।
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्भुखी॥ 12-68-89(67558)
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च।
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत्॥ 12-68-90(67559)
विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु।
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः॥ 12-68-91(67560)
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः।
दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत्॥' ॥ 12-68-92(67561)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टषष्टिमोऽध्यायः॥ 68॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-68-3 पार्थिवेन पृथुवंश्येन राज्ञा। पार्थिवप्रकृतेन वा विजातीयेनापि तत्कार्यकारिणा॥ 12-68-4 आत्मा चित्तम्॥ 12-68-5 पञ्चवर्गः श्रोत्रादिः॥ 12-68-6 गुल्मान् रक्षिणः पत्तीन्। संधौ सीमान्ते॥ 12-68-7 संस्थानेषु कोष्ठपालाद्युपवेशनस्थानेषु। मध्येऽन्तः पुरे॥ 12-68-8 प्रणिधीन् चारान्॥ 12-68-11 विहारेषु यूनां मल्लक्रीडास्थानेषु॥ 12-68-12 सभासु राजसंसत्सु। आवसथेषु तत्र तत्र महतां गृहेषु॥ 12-68-13 एवं विचिनुयाद्राजा परचारं विचक्षणः। चारे हि विदिते पूर्वं हितं भवति पाण्डव। इति झ. पाठः। तत्र विचिनुयात् अन्विष्यात् इत्यर्थः॥ 12-68-18 तैर्द्वारभूतैः तान्द्वारीकृत्यबलवद्भिर्नृपैः सह संधिं कुर्यात्॥ 12-68-19 पूर्वापकारिणः पूर्वं दुष्टा इति अपकृताः पश्चाद्दययानुगृहीताः॥ 12-68-21 अविज्ञातं क्रियाविशेषणमिदम्। अनाकन्दं मित्रहीनम्। अनन्तरं बन्धुजनहीनम्। व्यासक्तं अन्येन युद्धं कुर्वाणम्। प्रमत्तं अनवहितम्। यात्रायां यदि विज्ञातमिति झ. पाठः। तत्र यात्रायां यदि इच्छास्यात्तर्हि दुर्बलत्वादिना विज्ञातं शत्रुं प्रति यात्रामाज्ञापयेदित्युत्तरेण संबन्धः॥ 12-68-22 विधानं रक्षणादिसामग्रीसंपादनम् ॥ 12-68-23 कर्षयन् वीर्यवन्तं। तत्परः कर्षणपरः॥ 12-68-28 दशधर्मगतेभ्य इति। तदाददीत सहसेति च झ. पाठः। तत्र दशधर्मगताः मत्तोन्मत्तादय इत्यर्थः॥ 12-68-29 भक्तिः स्वीयत्वेन स्नेहः॥ 12-68-30 सूतं च विन्यसेद्राजा प्राज्ञं सर्वार्थदर्शिनम्। इति ट.ड.थ.द. पाठः॥ 12-68-31 आकरे स्वर्णाद्युत्पत्तिस्थाने। लवणे तदुत्पत्तिस्थाने। शुल्के धान्यादिविक्रयस्थाने। तरे नदीसंतरणे। नागबले हस्तियूथे॥ 12-68-37 घोषान् वनस्थान्मार्गेषु राजपथेषु न्यसेत्॥ 12-68-40 उपजपेत् भेदयित्वा तद्द्वारा दाहयेत्॥ 12-68-41 संक्रमान् अवतरणार्थान्सेतन्। जलं तटाकादिस्थं विस्रावयेत्। तदयोग्यं वापीकूपादिस्थं दूषयेत् विषादिना नाशयेत्॥ 12-68-42 तदात्वेन वर्तमानकाले आयतीभिः उत्तरकालेषु च। अपवर्गे तृतीया। सर्वदा आजौ परस्य शत्रोः प्रतिघातं हन्तारं भूम्यनन्तरं निकटदेशवासिनं तच्छत्रुमाश्रित्यनिवसेत्॥ 12-68-47 प्रगण्डीर्दुर्गप्राकारभित्तौ शूराणामुपवेशनस्थानानि। आकाशजननीस्तत्रैवैकपक्षायां भित्तौ तत्रत्यानां रक्षणभूतायां बाह्यार्थदर्शनार्थानि क्षुद्रच्छिद्राणि यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते। स्थाणवः सशूलाः। प्रकुण्ठीः कारयेत् इति ड.थ. पाठः॥ 12-68-48 संकटद्वारकाणि सूक्ष्मद्वाराणि। तेषां च द्वारवत् गुप्तिः कार्या। कुलिकद्वारकाणि स्युः इति ट. ड. थ. पाठः॥ 12-68-54 कर्मारो लोहकारादिः। अन्तर्विधेयः आच्छादितः कर्तव्यः॥ 12-68-55 महादण्डो वधः॥ 12-68-56 चाक्रिकान् शाकटिकान्। कुशीलवान् फाललेखान्॥ 12-68-62 वर्णिनां लेखकानाम्। यवसं धासः। दिग्धानां विषाक्तवाणानाम्॥ 12-68-64 चतुर्विधान् विषशल्यरोगकृत्याहरान्॥ 12-68-72 सन्धायासनं सन्धिं कृत्वाऽवस्थितिः। यात्रासन्धानं यानम्॥ 12-68-73 यात्रां संपरिगृह्याऽऽसनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थानेऽवस्थानम्। द्वैधीभाव उभयत्र संधिकरणम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|